Sukta 4.2
अधा मातुरुषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन् । दिवस्पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ॥
अधा॑ मा॒तुरु॒षस॑: स॒प्त विप्रा॒ जाये॑महि प्रथ॒मा वे॒धसो॒ नॄन् । दि॒वस्पु॒त्रा अङ्गि॑रसो भवे॒माद्रिं॑ रुजेम ध॒निनं॑ शु॒चन्त॑: ॥
adhā́ mātúr uṣásaḥ saptá víprā jā́yemahi prathamā́ védhaso nṝ́n | divás putrā́ áṅgiraso bhavemā́driṃ rujema dháninaṃ śucántaḥ ||
Then may we be born as the seven inspired ones from the Mother Dawn, first among the fashioners of man. May we become the Angirases, sons of Heaven; shining with purity, may we break the stone and release the wealth that is held within.
अध॑ । मा॒तुः । उ॒षसः॑ । स॒प्त । विप्राः॑ । जाये॑महि । प्र॒थ॒माः । वे॒धसः॑ । नॄन् । दि॒वः । पु॒त्राः । अङ्गि॑रसः । भ॒वे॒म॒ । अद्रि॑म् । रु॒जे॒म॒ । ध॒निन॑म् । शु॒चन्तः॑ ॥अध । मातुः । उषसः । सप्त । विप्राः । जायेमहि । प्रथमाः । वेधसः । नॄन् । दिवः । पुत्राः । अङ्गिरसः । भवेम । अद्रिम् । रुजेम । धनिनम् । शुचन्तः ॥adha | mātuḥ | uṣasaḥ | sapta | viprāḥ | jāyemahi | prathamāḥ | vedhasaḥ | nṝn | divaḥ | putrāḥ | aṅgirasaḥ | bhavema | adrim | rujema | dhaninam | śucantaḥ