Sukta 4.2
अधा ह यद्वयमग्ने त्वाया पड्भिर्हस्तेभिश्चकृमा तनूभिः । रथं न क्रन्तो अपसा भुरिजोॠतं येमुः सुध्य आशुषाणाः ॥
अधा॑ ह॒ यद्व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते॑भिश्चकृ॒मा त॒नूभि॑: । रथं॒ न क्रन्तो॒ अप॑सा भु॒रिजो॑ॠ॒तं ये॑मुः सु॒ध्य॑ आशुषा॒णाः ॥
adhā́ ha yád vayám agne tvāyā́ paṭ-bhír hástebhiś cakṛmā́ tanū́bhiḥ | ráthaṃ ná krántaḥ ápasā bhuríjo ṛtáṃ yémuḥ su-dhyá āśuṣāṇā́ḥ ||
And then, O Agni, when we have fashioned with our paths, our hands, our very bodies a work for thee—advancing like a chariot by our labour—may the clear-minded, swift in impulse, hold fast to the Truth (ṛta).
अध॑ । ह॒ । यत् । व॒यम् । अ॒ग्ने॒ । त्वा॒ऽया । प॒ट्ऽभिः । हस्ते॑भिः । च॒कृ॒म । त॒नूभिः॑ । रथ॑म् । न । क्रन्तः॑ । अप॑सा । भु॒रिजोः॑ । ऋ॒तम् । ये॒मुः॒ । सु॒ऽध्यः॑ । आ॒शु॒षा॒णाः ॥अध । ह । यत् । वयम् । अग्ने । त्वाया । पट्भिः । हस्तेभिः । चकृम । तनूभिः । रथम् । न । क्रन्तः । अपसा । भुरिजोः । ऋतम् । येमुः । सुध्यः । आशुषाणाः ॥adha | ha | yat | vayam | agne | tvāyā | paṭ-bhiḥ | hastebhiḥ | cakṛma | tanūbhiḥ | ratham | na | krantaḥ | apasā | bhurijoḥ | ṛtam | yemuḥ | su-dhyaḥ | āśuṣāṇāḥ