Sukta 4.2
त्वमग्ने वाघते सुप्रणीतिः सुतसोमाय विधते यविष्ठ । रत्नं भर शशमानाय घृष्वे पृथु श्चन्द्रमवसे चर्षणिप्राः ॥
त्वम॑ग्ने वा॒घते॑ सु॒प्रणी॑तिः सु॒तसो॑माय विध॒ते य॑विष्ठ । रत्नं॑ भर शशमा॒नाय॑ घृष्वे पृ॒थु श्च॒न्द्रमव॑से चर्षणि॒प्राः ॥
tvám agne vāgháte su-práṇītiḥ sutá-somāya vidhaté yaviṣṭha | rátnam bhara śaśamānā́ya ghṛ́ṣve pṛthú ś candrám ávase carṣaṇi-prā́ḥ ||
Thou, O Agni, art the perfect leader for the giver of the offering, for the sacrificer who presses Soma; O youngest, bring the treasure to the striving one, to the ardent. Wide and luminous be thy aid for the peoples who advance.
त्वम् । अ॒ग्ने॒ । वा॒घते॑ । सु॒ऽप्रनी॑तिः । सु॒तऽसो॑माय । वि॒ध॒ते । य॒वि॒ष्ठ॒ । रत्न॑म् । भ॒र॒ । श॒श॒मा॒नाय॑ । घृ॒ष्वे॒ । पृ॒थु । च॒न्द्रम् । अव॑से । च॒र्ष॒णि॒ऽप्राः ॥त्वम् । अग्ने । वाघते । सुप्रनीतिः । सुतसोमाय । विधते । यविष्ठ । रत्नम् । भर । शशमानाय । घृष्वे । पृथु । चन्द्रम् । अवसे । चर्षणिप्राः ॥tvam | agne | vāghate | su-pranītiḥ | suta-somāya | vidhate | yaviṣṭha | ratnam | bhara | śaśamānāya | ghṛṣve | pṛthu | candram | avase | carṣaṇi-prāḥ