Sukta 4.2
कविं शशासुः कवयोऽदब्धा निधारयन्तो दुर्यास्वायोः । अतस्त्वं दृश्याँ अग्न एतान्पड्भिः पश्येरद्भुताँ अर्य एवैः ॥
क॒विं श॑शासुः क॒वयोऽद॑ब्धा निधा॒रय॑न्तो॒ दुर्या॑स्वा॒योः । अत॒स्त्वं दृश्याँ॑ अग्न ए॒तान्प॒ड्भिः प॑श्ये॒रद्भु॑ताँ अ॒र्य एवै॑: ॥
kavím śaśāsuḥ kaváyo’ dábdhā ni-dhā́rayanto dúryāsv āyóḥ | átás tváṃ dṛ́śyāṃ agne etā́n paṭ-bhíḥ paśyér ádbhūtāṃ arya éváiḥ ||
The seers, unbetrayed, have instructed the Seer and have set him firmly within the dwelling-places of life-force. Therefore, O Agni, do thou behold these visible wonders with thy paths—thou who art the noble one by thy goings.
क॒विम् । श॒शा॒सुः॒ । क॒वयः॑ । अद॑ब्धाः । नि॒ऽधा॒रय॑न्तः । दुर्या॑सु । आ॒योः । अतः॑ । त्वम् । दृश्या॑न् । अ॒ग्ने॒ । ए॒तान् । प॒ट्ऽभिः । प॒श्येः॒ । अद्भु॑तान् । अ॒र्यः । एवैः॑ ॥कविम् । शशासुः । कवयः । अदब्धाः । निधारयन्तः । दुर्यासु । आयोः । अतः । त्वम् । दृश्यान् । अग्ने । एतान् । पट्भिः । पश्येः । अद्भुतान् । अर्यः । एवैः ॥kavim | śaśāsuḥ | kavayaḥ | adabdhāḥ | ni-dhārayantaḥ | duryāsu | āyoḥ | ataḥ | tvam | dṛśyān | agne | etān | paṭ-bhiḥ | paśyeḥ | adbhutām | aryaḥ | evaiḥ