Sukta 4.2
चित्तिमचित्तिं चिनवद्वि विद्वान्पृष्ठेव वीता वृजिना च मर्तान् । राये च नः स्वपत्याय देव दितिं च रास्वादितिमुरुष्य ॥
चित्ति॒मचि॑त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता॑न् । रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं॑ च॒ रास्वादि॑तिमुरुष्य ॥
cittím acíttiṃ cinavad ví vidvā́n pṛṣṭhéva vītā́ vṛjinā́ ca mártān | rāyé ca naḥ svapatyā́ya deva dítim ca rāsva áditim uruṣya ||
O Agni, the knower, discern and gather for us the right discriminations and separate them from the false and confused movements; like one who chooses the sound support, set apart the crooked mortal impulses. Give us the plenitude (rāyí) and the power to found a noble posterity; grant us Diti (the right division and ordering), and safeguard for us Aditi (the undivided infinity).
चित्ति॑म् । अचि॑त्तिम् । चि॒न॒व॒त् । वि । वि॒द्वान् । पृ॒ष्टाऽइ॑व । वी॒ता । वृ॒जि॒ना । च॒ । मर्ता॑न् । रा॒ये । च॒ । नः॒ । सु॒ऽअ॒प॒त्याय॑ । दे॒व॒ । दिति॑म् । च॒ । रास्व॑ । अदि॑तिम् । उ॒रु॒ष्य॒ ॥चित्तिम् । अचित्तिम् । चिनवत् । वि । विद्वान् । पृष्टाइव । वीता । वृजिना । च । मर्तान् । राये । च । नः । सुअपत्याय । देव । दितिम् । च । रास्व । अदितिम् । उरुष्य ॥cittim | acittim | cinavat | vi | vidvān | pṛṣṭāiva | vītā | vṛjinā | ca | martān | rāye | ca | naḥ | su-apatyāya | deva | ditim | ca | rāsva | aditim | uruṣya