Sukta 4.19
वम्रीभिः पुत्रमग्रुवो अदानं निवेशनाद्धरिव आ जभर्थ । व्यन्धो अख्यदहिमाददानो निर्भूदुखच्छित्समरन्त पर्व ॥
व॒म्रीभि॑: पु॒त्रम॒ग्रुवो॑ अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ । व्य१॒॑न्धो अ॑ख्य॒दहि॑माददा॒नो निर्भू॑दुख॒च्छित्सम॑रन्त॒ पर्व॑ ॥
vamrībhiḥ putrám agrúvo adānáṃ ni-veśanād dharivo ā jabhartha | ví andháḥ akhyad áhím ādadānáḥ níḥ bhūt ukha-chit sám aranta párva ||
With the help of the ants thou didst bring up from its dwelling the son who was withheld and not given. The blind one saw clearly; taking hold of the Serpent, he came forth—then even the fissures of the rock, as if cut open, joined together in the act of breaking the obstruction.
व॒म्रीभिः॑ । पु॒त्रम् । अ॒ग्रुवः॑ । अ॒दा॒नम् । नि॒ऽवेश॑नात् । ह॒रि॒ऽवः॒ । आ । ज॒भ॒र्थ॒ । वि । अ॒न्धः । अ॒ख्य॒त् । अहि॑म् । आ॒ऽद॒दा॒नः । निः । भू॒त् । उ॒ख॒ऽछित् । सम् । अ॒र॒न्त॒ । पर्व॑ ॥वम्रीभिः । पुत्रम् । अग्रुवः । अदानम् । निवेशनात् । हरिवः । आ । जभर्थ । वि । अन्धः । अख्यत् । अहिम् । आददानः । निः । भूत् । उखछित् । सम् । अरन्त । पर्व ॥vamrībhiḥ | putram | agruvaḥ | adānam | ni-veśanāt | hari-vaḥ | ā | jabhartha | v i | andhaḥ | akhyat | ahim | ādadānaḥ | niḥ | bhūt | ukha-chit | sam | aranta | parva