Sukta 4.19
पूर्वीरुषसः शरदश्च गूर्ता वृत्रं जघन्वाँ असृजद्वि सिन्धून् । परिष्ठिता अतृणद्बद्बधानाः सीरा इन्द्रः स्रवितवे पृथिव्या ॥
पू॒र्वीरु॒षस॑: श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् । परि॑ष्ठिता अतृणद्बद्बधा॒नाः सी॒रा इन्द्र॒: स्रवि॑तवे पृथि॒व्या ॥
pūrvī́r uṣásaḥ śáradaś ca gūrtā́ vṛ́traṁ jaghanvā́ṁ asṛ́jad ví síndhūn | pári-sthitā atṛṇad badbadhānā́ḥ sīrā́ índraḥ sravitáve pṛthivyā́ḥ ||
Many dawns and seasons were held back; but when Indra had slain Vṛtra he sent forth the rivers. Standing around, the blocked ones were loosened and set to flow; Indra made the streams run upon the earth.
पू॒र्वीः । उ॒षसः॑ । श॒रदः॑ । च॒ । गू॒र्ताः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒सृ॒ज॒त् । वि । सिन्धू॑न् । परि॑ऽस्थिताः । अ॒तृ॒ण॒त् । ब॒द्ब॒धा॒नाः । सी॒राः । इन्द्रः॑ । स्रवि॑तवे । पृ॒थि॒व्या ॥पूर्वीः । उषसः । शरदः । च । गूर्ताः । वृत्रम् । जघन्वान् । असृजत् । वि । सिन्धून् । परिस्थिताः । अतृणत् । बद्बधानाः । सीराः । इन्द्रः । स्रवितवे । पृथिव्या ॥pūrvīḥ | uṣasaḥ | śaradaḥ | ca | gūrtāḥ | vṛtram | jaghanvān | asṛjat | vi | sindhūn | pari-sthitāḥ | atṛṇat | badbadhānāḥ | sīrāḥ | indraḥ | sravitave | pṛthivyā