Sukta 4.19
प्र ते पूर्वाणि करणानि विप्राविद्वाँ आह विदुषे करांसि । यथायथा वृष्ण्यानि स्वगूर्तापांसि राजन्नर्याविवेषीः ॥
प्र ते॒ पूर्वा॑णि॒ कर॑णानि विप्रावि॒द्वाँ आ॑ह वि॒दुषे॒ करां॑सि । यथा॑यथा॒ वृष्ण्या॑नि॒ स्वगू॒र्तापां॑सि राज॒न्नर्यावि॑वेषीः ॥
prá te pū́rvāṇi káraṇāni vipra āvidvā́n āha vidúṣe kárāṃsi | yáthā-yathā vṛ́ṣṇyāni sva-gū́rtā apā́ṃsi rā́jan naryā́ aviveṣīḥ ||
I set forth to thee thy ancient deeds; the inspired knower declares to the knowing the works thou hast wrought—how, O King, thou didst enter and pervade, again and again, the manly labours that are rightly guided by thy victorious force.
प्र । ते॒ । पूर्वा॑णि । कर॑णानि । वि॒प्र॒ । आ॒ऽवि॒द्वान् । आ॒ह॒ । वि॒दुषे॑ । करां॑सि । यथा॑ऽयथा । वृष्ण्या॑नि । स्वऽगू॒र्ता । अपां॑सि । रा॒ज॒न् । नर्या॑ । अवि॑वेषीः ॥प्र । ते । पूर्वाणि । करणानि । विप्र । आविद्वान् । आह । विदुषे । करांसि । यथायथा । वृष्ण्यानि । स्वगूर्ता । अपांसि । राजन् । नर्या । अविवेषीः ॥pra | te | pūrvāṇi | karaṇāni | vipra | āvidvān | āha | viduṣe | karāṃsi | yathāyathā | vṛṣṇyāni | sva-gūrtā | apāṃsi | rājan | naryā | aviveṣīḥ