Sukta 4.19
अभि प्र दद्रुर्जनयो न गर्भं रथा इव प्र ययुः साकमद्रयः । अतर्पयो विसृत उब्ज ऊर्मीन्त्वं वृताँ अरिणा इन्द्र सिन्धून् ॥
अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा॑ इव॒ प्र य॑युः सा॒कमद्र॑यः । अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मीन्त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ॥
abhí prá dadruḥ jánayo ná gárbhaṁ ráthā iva prá yayuḥ sākám ádrayaḥ | átarpayo vi-sṛ́ta ubjá ūrmī́n tváṁ vṛtā́ṁ ariṇā indra síndhūn ||
They rushed forth like mothers towards the child; like chariots the stones moved together. Thou didst set free the heaving waves, loosed and uplifted; thou didst release the rivers that were held back, O Indra.
अ॒भि । प्र । द॒द्रुः॒ । जन॑यः । न । गर्भ॑म् । रथाः॑ऽइव । प्र । य॒युः॒ । सा॒कम् । अद्र॑यः । अत॑र्पयः । वि॒ऽसृतः॑ । उ॒ब्जः । ऊ॒र्मीन् । त्वम् । वृ॒तान् । अ॒रि॒णाः॒ । इ॒न्द्र॒ । सिन्धू॑न् ॥अभि । प्र । दद्रुः । जनयः । न । गर्भम् । रथाःइव । प्र । ययुः । साकम् । अद्रयः । अतर्पयः । विसृतः । उब्जः । ऊर्मीन् । त्वम् । वृतान् । अरिणाः । इन्द्र । सिन्धून् ॥abhi | pra | dadruḥ | janayaḥ | na | garbham | rathāḥ-iva | pra | yayuḥ | sākam | adrayaḥ | atarpayaḥ | vi-sṛtaḥ | ubjaḥ | ūrmīn | tvam | vṛtān | ariṇāḥ | indra | sindhūn