Sukta 4.19
अक्षोदयच्छवसा क्षाम बुध्नं वार्ण वातस्तविषीभिरिन्द्रः । दृळ्हान्यौभ्नादुशमान ओजोऽवाभिनत्ककुभः पर्वतानाम् ॥
अक्षो॑दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिन्द्र॑: । दृ॒ळ्हान्यौ॑भ्नादु॒शमा॑न॒ ओजोऽवा॑भिनत्क॒कुभ॒: पर्व॑तानाम् ॥
ákṣodayac chávāsā kṣā́ma budhnáṁ vārṇá vātás távīṣībhir índraḥ | dṛḷhā́ny aubhnād uśámāna ójo 'ávābhinat kakúbhaḥ párvatānām ||
Indra with his force set the earth’s foundation in motion, as the wind drives with its powers; yearning in might, he shattered the firm holds and broke down the mountain-peaks that hemmed the way.
अक्षो॑दयत् । शव॑सा । क्षाम॑ । बु॒ध्नम् । वाः । न । वातः॑ । तवि॑षीभिः । इन्द्रः॑ । दृ॒ळ्हानि॑ । औ॒भ्ना॒त् । उ॒शमा॑नः । ओजः॑ । अव॑ । अ॒भि॒न॒त् । क॒कुभः॑ । पर्व॑तानाम् ॥अक्षोदयत् । शवसा । क्षाम । बुध्नम् । वाः । न । वातः । तविषीभिः । इन्द्रः । दृळ्हानि । औभ्नात् । उशमानः । ओजः । अव । अभिनत् । ककुभः । पर्वतानाम् ॥akṣodayat | śavasā | kṣāma | budhnam | vāḥ | na | vātaḥ | taviṣībhiḥ | indraḥ | dṛḷhāni | aubhnāt | uśamānaḥ | ojaḥ | ava | abhinat | kakubhaḥ | parvatānām