Sukta 4.14
आवहन्त्यरुणीर्ज्योतिषागान्मही चित्रा रश्मिभिश्चेकिताना । प्रबोधयन्ती सुविताय देव्युषा ईयते सुयुजा रथेन ॥
आ॒वह॑न्त्यरु॒णीर्ज्योति॒षागा॑न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना । प्र॒बो॒धय॑न्ती सुवि॒ताय॑ दे॒व्यु१॒॑षा ई॑यते सु॒युजा॒ रथे॑न ॥
āváhanty aruṇī́r jyótiṣā́gān mahī́ citrā́ raśmíbhiś cékītānā | pra-bódhayantī su-vitā́ya dēvy ùṣā́ īyate su-yújā ráthena ||
Bringing the ruddy lights, she has come with her illumination—vast, manifold, and conscious with her rays. Awakening us for the happy journey, the goddess Dawn moves forward with her well-yoked chariot.
आ॒ऽवह॑न्ती । अ॒रु॒णीः । ज्योति॒षा । आ । अ॒गा॒त् । म॒ही । चि॒त्रा । र॒श्मिऽभिः॑ । चेकि॑ताना । प्र॒ऽबो॒धय॑न्ती । सु॒ऽवि॒ताय॑ । दे॒वी । उ॒षाः । ई॒य॒ते॒ । सु॒ऽयुजा॑ । रथे॑न ॥आवहन्ती । अरुणीः । ज्योतिषा । आ । अगात् । मही । चित्रा । रश्मिभिः । चेकिताना । प्रबोधयन्ती । सुविताय । देवी । उषाः । ईयते । सुयुजा । रथेन ॥āvahantī | aruṇīḥ | jyotiṣā | ā | agāt | mahī | citrā | raśmi-bhiḥ | cekitānā | pra-bodhayantī | su-vitāya | devī | uṣāḥ | īyate | su-yujā | rathena