Sukta 4.14
आ वां वहिष्ठा इह ते वहन्तु रथा अश्वास उषसो व्युष्टौ । इमे हि वां मधुपेयाय सोमा अस्मिन्यज्ञे वृषणा मादयेथाम् ॥
आ वां॒ वहि॑ष्ठा इ॒ह ते व॑हन्तु॒ रथा॒ अश्वा॑स उ॒षसो॒ व्यु॑ष्टौ । इ॒मे हि वां॑ मधु॒पेया॑य॒ सोमा॑ अ॒स्मिन्य॒ज्ञे वृ॑षणा मादयेथाम् ॥
ā vāṃ vahiṣṭhā́ ihá te vahantu ráthā áśvāsa uṣáso vyùṣṭau | imé hí vāṃ madhu-péyāya sómā asmín yajñé vṛṣaṇā mādayethām ||
Let your most potent chariots and steeds bring you here at the full breaking of Dawn. For these Soma-pressings are for your honey-drinking; in this sacrifice, O mighty pair, take joy and increase the force within us.
आ । वा॒म् । वहि॑ष्ठाः । इ॒ह । ते । व॒ह॒न्तु॒ । रथाः॑ । अश्वा॑सः । उ॒षसः॑ । विऽउ॑ष्टौ । इ॒मे । हि । वा॒म् । म॒धु॒ऽपेया॑य । सोमाः॑ । अ॒स्मिन् । य॒ज्ञे । वृ॒ष॒णा॒ । मा॒द॒ये॒था॒म् ॥आ । वाम् । वहिष्ठाः । इह । ते । वहन्तु । रथाः । अश्वासः । उषसः । विउष्टौ । इमे । हि । वाम् । मधुपेयाय । सोमाः । अस्मिन् । यज्ञे । वृषणा । मादयेथाम् ॥ā | vām | vahiṣṭhāḥ | iha | te | vahantu | rathāḥ | aśvāsaḥ | uṣasaḥ | vi-uṣṭau | ime | hi | vām | madhu-peyāya | somāḥ | asmin | yajñe | vṛṣaṇā | mādayethām