Sukta 4.12
महश्चिदग्न एनसो अभीक ऊर्वाद्देवानामुत मर्त्यानाम् । मा ते सखायः सदमिद्रिषाम यच्छा तोकाय तनयाय शं योः ॥
म॒हश्चि॑दग्न॒ एन॑सो अ॒भीक॑ ऊ॒र्वाद्दे॒वाना॑मु॒त मर्त्या॑नाम् । मा ते॒ सखा॑य॒: सद॒मिद्रि॑षाम॒ यच्छा॑ तो॒काय॒ तन॑याय॒ शं योः ॥
maháś cid agne énaso abhī́ka ūrvā́d devā́nām utá mártyānām | mā́ te sakhā́yaḥ sádham íd riṣāma yácchā tokā́ya tánayāya śáṃ yóḥ ||
Even from the great nearness of sin, O Agni—from the wide field where gods and mortals move—let us not, though companions of thee, suffer harm. Bestow for our child and our offspring peace and a glad well-being.
म॒हः । चि॒त् । अ॒ग्ने॒ । एन॑सः । अ॒भीके॑ । ऊ॒र्वात् । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् । मा । ते॒ । सखा॑यः । सद॑म् । इत् । रि॒षा॒म॒ । यच्छ॑ । तो॒काय॑ । तन॑याय । शम् । योः ॥महः । चित् । अग्ने । एनसः । अभीके । ऊर्वात् । देवानाम् । उत । मर्त्यानाम् । मा । ते । सखायः । सदम् । इत् । रिषाम । यच्छ । तोकाय । तनयाय । शम् । योः ॥mahaḥ | cit | agne | enasaḥ | abhīke | ūrvāt | devānām | uta | martyānām | mā | te | sakhāyaḥ | sadam | it | riṣāma | yaccha | tokāya | tanayāya | śam | yoḥ