Sukta 4.12
यच्चिद्धि ते पुरुषत्रा यविष्ठाचित्तिभिश्चकृमा कच्चिदागः । कृधी ष्वस्माँ अदितेरनागान्व्येनांसि शिश्रथो विष्वगग्ने ॥
यच्चि॒द्धि ते॑ पुरुष॒त्रा य॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒मा कच्चि॒दाग॑: । कृ॒धी ष्व१॒॑स्माँ अदि॑ते॒रना॑गा॒न्व्येनां॑सि शिश्रथो॒ विष्व॑गग्ने ॥
yác cíd hí te puruṣatrā́ yaviṣṭhā́cittibhis cakṛmá kác cid ā́gaḥ | kṛdhí sv asmā́ṃ áditeḥ anā́gān vy ènā́ṃsi śiśratho víṣvag agne ||
Whatever offence we may have done against thee, O youngest, who art strong for man, by our unawakened understandings—make us indeed guiltless in the wideness of Aditi; loosen away our bonds of error on every side, O Agni.
यत् । चि॒त् । हि । ते॒ । पु॒रु॒ष॒ऽत्रा । य॒वि॒ष्ठ॒ । अचि॑त्तिऽभिः । च॒कृ॒म । कत् । चि॒त् । आगः॑ । कृ॒धि । सु । अ॒स्मान् । अदि॑तेः । अना॑गान् । वि । एनां॑सि । शि॒श्र॒थः॒ । विष्व॑क् । अ॒ग्ने॒ ॥यत् । चित् । हि । ते । पुरुषत्रा । यविष्ठ । अचित्तिभिः । चकृम । कत् । चित् । आगः । कृधि । सु । अस्मान् । अदितेः । अनागान् । वि । एनांसि । शिश्रथः । विष्वक् । अग्ने ॥yat | cit | hi | te | puruṣa-trā | yaviṣṭha | acitti-bhiḥ | cakṛma | kat | cit | āgaḥ | kṛdhi | su | asmān | aditeḥ | anāgān | vi | enāṃsi | śiśrathaḥ | viṣvak | agne