Sukta 4.12
अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य रायः । दधाति रत्नं विधते यविष्ठो व्यानुषङ्मर्त्याय स्वधावान् ॥
अ॒ग्निरी॑शे बृह॒तः क्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः । दधा॑ति॒ रत्नं॑ विध॒ते यवि॑ष्ठो॒ व्या॑नु॒षङ्मर्त्या॑य स्व॒धावा॑न् ॥
agnír īśe bṛhatáḥ kṣatríyasya agnír vā́jasya paramásya rāyáḥ | dádhāti rátnam vidhaté yáviṣṭho vy ā́nuṣaṅ mártyāya svadhā́vān ||
Agni is lord of the vast heroic power; Agni is lord of the supreme plenitude of force and the highest wealth. The youngest, the self-sustaining one, places the jewel for the worshipper—spreading it out for the mortal in continuous succession.
अ॒ग्निः । ई॒शे॒ । बृ॒ह॒तः । क्ष॒त्रिय॑स्य । अ॒ग्निः । वाज॑स्य । प॒र॒मस्य॑ । रा॒यः । दधा॑ति । रत्न॑म् । वि॒ध॒ते । यवि॑ष्ठः । वि । आ॒नु॒षक् । मर्त्या॑य । स्व॒धाऽवा॑न् ॥अग्निः । ईशे । बृहतः । क्षत्रियस्य । अग्निः । वाजस्य । परमस्य । रायः । दधाति । रत्नम् । विधते । यविष्ठः । वि । आनुषक् । मर्त्याय । स्वधावान् ॥agniḥ | āśe | bṛhataḥ | kṣatriyasya | agniḥ | vājasya | paramasya | rāyaḥ | dadhāti | ratnam | vidhate | yaviṣṭhaḥ | vi | ānuṣak | martyāya | svadhāvān