Sukta 4.12
इध्मं यस्ते जभरच्छश्रमाणो महो अग्ने अनीकमा सपर्यन् । स इधानः प्रति दोषामुषासं पुष्यन्रयिं सचते घ्नन्नमित्रान् ॥
इ॒ध्मं यस्ते॑ ज॒भर॑च्छश्रमा॒णो म॒हो अ॑ग्ने॒ अनी॑क॒मा स॑प॒र्यन् । स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य॑न्र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ॥
idhmáṃ yás te jábhārat śaśramāṇó mahó agne ánīkam ā́ saparyán | sá idhānó práti doṣā́m uṣásaṃ púṣyan rayíṃ sacate ghnán amítrān ||
He who brings thee fuel with labor and serves thy mighty front, O Agni—he, kindling thee, meets both Night and Dawn; fostering the plenitude (rayi) he moves with it, striking down the hostile powers.
इ॒ध्मम् । यः । ते॒ । ज॒भर॑त् । श॒श्र॒मा॒णः । म॒हः । अ॒ग्ने॒ । अनी॑कम् । आ । स॒प॒र्यन् । सः । इ॒धा॒नः । प्रति॑ । दो॒षाम् । उ॒षस॑म् । पुष्य॑न् । र॒यिम् । स॒च॒ते॒ । घ्नन् । अ॒मित्रा॑न् ॥इध्मम् । यः । ते । जभरत् । शश्रमाणः । महः । अग्ने । अनीकम् । आ । सपर्यन् । सः । इधानः । प्रति । दोषाम् । उषसम् । पुष्यन् । रयिम् । सचते । घ्नन् । अमित्रान् ॥idhmam | yaḥ | te | jabharat | śaśramāṇaḥ | mahaḥ | agne | anīkam | ā | saparyan | saḥ | idhānaḥ | prati | doṣām | uṣasam | puṣyan | rayim | sacate | ghnan | amitrān