Sukta 4.11
त्वद्वाजी वाजम्भरो विहाया अभिष्टिकृज्जायते सत्यशुष्मः । त्वद्रयिर्देवजूतो मयोभुस्त्वदाशुर्जूजुवाँ अग्ने अर्वा ॥
त्वद्वा॒जी वा॑जम्भ॒रो विहा॑या अभिष्टि॒कृज्जा॑यते स॒त्यशु॑ष्मः । त्वद्र॒यिर्दे॒वजू॑तो मयो॒भुस्त्वदा॒शुर्जू॑जु॒वाँ अ॑ग्ने॒ अर्वा॑ ॥
tvád vājī vā́jambharo vihāyā abhiṣṭikṛ́j jāyate satyáśuṣmaḥ | tvád rayír devájūto mayobhús tvád āśúr jūjuvā́ṃ agne árvā ||
From you is born the bringer of plenitude-force, moving in the wide spaces, a maker of victorious help, whose power is true. From you comes the bliss-giving wealth, impelled by the gods; from you the swift steed of energy, ever pressing forward, O Agni.
त्वत् । वा॒जी । वा॒ज॒म्ऽभ॒रः । विऽहा॑याः । अ॒भि॒ष्टि॒ऽकृत् । जा॒य॒ते॒ । स॒त्यऽशु॑ष्मः । त्वत् । र॒यिः । दे॒वऽजू॑तः । म॒यः॒ऽभुः । त्वत् । आ॒शुः । जू॒जु॒ऽवान् । अ॒ग्ने॒ । अर्वा॑ ॥त्वत् । वाजी । वाजम्भरः । विहायाः । अभिष्टिकृत् । जायते । सत्यशुष्मः । त्वत् । रयिः । देवजूतः । मयःभुः । त्वत् । आशुः । जूजुवान् । अग्ने । अर्वा ॥tvat | vājī | vājam-bharaḥ | vi-hāyāḥ | abhiṣṭi-kṛt | jāyate | satya-śuṣmaḥ | tvat | rayiḥ | deva-jūtaḥ | mayaḥ-bhuḥ | tvat | āśuḥ | jūju-vān | agne | arvā