Sukta 4.11
त्वदग्ने काव्या त्वन्मनीषास्त्वदुक्था जायन्ते राध्यानि । त्वदेति द्रविणं वीरपेशा इत्थाधिये दाशुषे मर्त्याय ॥
त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा॑यन्ते॒ राध्या॑नि । त्वदे॑ति॒ द्रवि॑णं वी॒रपे॑शा इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या॑य ॥
tvád agne kā́vyā tván manīṣā́s tvád ukthā́ jāyante rā́dhyāni | tvád eti dráviṇaṃ vīrápeśā itthā́dhiye dāśúṣe mártyāya ||
From you, O Agni, come the poet’s inspired powers; from you the illumined insights; from you are born the hymns that accomplish. From you comes the wealth of heroic formation—thus to the mortal who offers, you give the right understanding for the work.
त्वत् । अ॒ग्ने॒ । काव्या॑ । त्वम् । म॒नी॒षाः । त्वत् । उ॒क्था । जा॒य॒न्ते॒ । राध्या॑नि । त्वत् । ए॒ति॒ । द्रवि॑णम् । वी॒रऽपे॑शाः । इ॒त्थाऽधि॑ये । दा॒शुषे॑ । मर्त्या॑य ॥त्वत् । अग्ने । काव्या । त्वम् । मनीषाः । त्वत् । उक्था । जायन्ते । राध्यानि । त्वत् । एति । द्रविणम् । वीरपेशाः । इत्थाधिये । दाशुषे । मर्त्याय ॥tvat | agne | kāvyā | tvam | manīṣāḥ | tvat | ukthā | jāyante | rādhyāni | tvat | eti | draviṇam | vīra-peśāḥ | itthādhiye | dāśuṣe | martyāya