Sukta 4.11
वि षाह्यग्ने गृणते मनीषां खं वेपसा तुविजात स्तवानः । विश्वेभिर्यद्वावनः शुक्र देवैस्तन्नो रास्व सुमहो भूरि मन्म ॥
वि षा॑ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा॑नः । विश्वे॑भि॒र्यद्वा॒वन॑: शुक्र दे॒वैस्तन्नो॑ रास्व सुमहो॒ भूरि॒ मन्म॑ ॥
ví ṣā́hy agne gṛṇaté manīṣā́ṃ kháṃ vépasā tuvi-jāta stávānaḥ | víśvebhir yád vāvánāḥ śukra deváis tán no rāsva su-mahó bhū́ri mánma ||
Conquer forth, O Agni, for the singer’s inspired thought; shake the wide space with your vibrant power, O widely-born, as we praise you. Whatever luminous plenitude you win with all the gods—give that to us: a vast and abundant vision-thought.
वि । सा॒हि॒ । अ॒ग्ने॒ । गृ॒ण॒ते । म॒नी॒षाम् । खम् । वेप॑सा । तु॒वि॒ऽजा॒त॒ । स्तवा॑नः । विश्वे॑भिः । यत् । व॒वनः॑ । शु॒क्र॒ । दे॒वैः । तत् । नः॒ । रा॒स्व॒ । सु॒ऽम॒हः॒ । भूरि॑ । मन्म॑ ॥वि । साहि । अग्ने । गृणते । मनीषाम् । खम् । वेपसा । तुविजात । स्तवानः । विश्वेभिः । यत् । ववनः । शुक्र । देवैः । तत् । नः । रास्व । सुमहः । भूरि । मन्म ॥vi | sāhi | agne | gṛṇate | manīṣām | kham | vepasā | tuvi-jāta | stavānaḥ | viśvebhiḥ | yat | vavanaḥ | śukra | devaiḥ | tat | naḥ | rāsva | su-mahaḥ | bhūri | manma