Sukta 3.9
तं त्वा मर्ता अगृभ्णत देवेभ्यो हव्यवाहन । विश्वान्यद्यज्ञाँ अभिपासि मानुष तव क्रत्वा यविष्ठ्य ॥
तं त्वा॒ मर्ता॑ अगृभ्णत दे॒वेभ्यो॑ हव्यवाहन । विश्वा॒न्यद्य॒ज्ञाँ अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा॑ यविष्ठ्य ॥
táṃ tvā martā́ agṛbhṇata devébhyo havyavāhana | víśvāny ád yajñā́m̐ abhípāsi mā́nuṣa táva krátvā yaviṣṭhya ||
The mortals have seized thee for the gods, O carrier of the offering. For thou guardest all the sacrifices—O human-facing Fire—by thy will of effective knowledge, O youngest in power.
तम् । त्वा॒ । मर्ताः॑ । अ॒गृ॒भ्ण॒त॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ । विश्वा॑न् । यत् । य॒ज्ञान् । अ॒भि॒ऽपासि॑ । मा॒नु॒ष॒ । तव॑ । क्रत्वा॑ । य॒वि॒ष्ठ्य॒ ॥तम् । त्वा । मर्ताः । अगृभ्णत । देवेभ्यः । हव्यवाहन । विश्वान् । यत् । यज्ञान् । अभिपासि । मानुष । तव । क्रत्वा । यविष्ठ्य ॥tam | tvā | martāḥ | agṛbhṇata | devebhyaḥ | havya-vāhana | viśvān | yat | yajñān | abhi-pāsi | mānuṣa | tava | kratvā | yaviṣṭhya