Sukta 3.9
तद्भद्रं तव दंसना पाकाय चिच्छदयति । त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे ॥
तद्भ॒द्रं तव॑ दं॒सना॒ पाका॑य चिच्छदयति । त्वां यद॑ग्ने प॒शव॑: स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ॥
tád bhadráṃ táva daṃsánā pākā́ya cic chadayati | tvā́ṃ yád agne paśávaḥ samā́sate sámiddham apiśarvaré ||
This is the blessedness of thy power: it covers even the unripe in understanding. When the herds of energies gather to thee, O Agni—kindled—thou art a shelter even in the dim enclosure.
तत् । भ॒द्रम् । तव॑ । दं॒सना॑ । पाका॑य । चि॒त् । छ॒द॒य॒ति॒ । त्वाम् । यत् । अ॒ग्ने॒ । प॒शवः॑ । स॒म्ऽआस॑ते । सम्ऽइ॑द्धम् । अ॒पि॒ऽश॒र्व॒रे ॥तत् । भद्रम् । तव । दंसना । पाकाय । चित् । छदयति । त्वाम् । यत् । अग्ने । पशवः । सम्आसते । सम्इद्धम् । अपिशर्वरे ॥tat | bhadram | tava | daṃsanā | pākāya | cit | chadayati | tvām | yat | agne | paśavaḥ | sam-āsate | sam-iddham | api-śarvare