Sukta 3.9
ससृवांसमिव त्मनाग्निमित्था तिरोहितम् । ऐनं नयन्मातरिश्वा परावतो देवेभ्यो मथितं परि ॥
स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तम् । ऐनं॑ नयन्मात॒रिश्वा॑ परा॒वतो॑ दे॒वेभ्यो॑ मथि॒तं परि॑ ॥
sasṛvā́ṃsam iva tmánāgním itthā́ tiróhitaṃ | áinaṃ nayan mātáriśvā parāváto devébhyo mathitáṃ pári ||
As one flowing by its own nature, so was Agni—thus hidden. Mātariśvan led him from the far beyond, churned out for the gods and brought here.
स॒सृ॒वांस॑म्ऽइव । त्मना॑ । अ॒ग्निम् । इ॒त्था । ति॒रःऽहि॑तम् । आ । ए॒न॒म् । न॒य॒त् । मा॒त॒रिश्वा॑ । प॒रा॒ऽवतः॑ । दे॒वेभ्यः॑ । म॒थि॒तम् । परि॑ ॥ससृवांसम्इव । त्मना । अग्निम् । इत्था । तिरःहितम् । आ । एनम् । नयत् । मातरिश्वा । परावतः । देवेभ्यः । मथितम् । परि ॥sasṛvāṃsam-iva | tmanā | agnim | itthā | tiraḥ-hitam | ā | enam | nayat | mātar iśvā | parāvataḥ | devebhyaḥ | mathitam | pari