Sukta 3.9
ईयिवांसमति स्रिधः शश्वतीरति सश्चतः । अन्वीमविन्दन्निचिरासो अद्रुहोऽप्सु सिंहमिव श्रितम् ॥
ई॒यि॒वांस॒मति॒ स्रिध॒: शश्व॑ती॒रति॑ स॒श्चत॑: । अन्वी॑मविन्दन्निचि॒रासो॑ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम् ॥
īyivā́ṃsam áti srídhaḥ śáśvatīr áti sáścataḥ | ánv īm avindan nicirā́so ádruho ’psú síṃham iva śritám ||
Him who was advancing they followed beyond the breaks and beyond the long continuities; the patient and undeceiving ones found him—like a lion lodged in the waters—established in the depths.
ई॒यि॒ऽवांस॑म् । अति॑ । स्रिधः॑ । शश्व॑तीः । अति॑ । स॒श्चतः॑ । अनु॑ । ई॒म् । अ॒वि॒न्द॒न् । नि॒ऽचि॒रासः॑ । अ॒द्रुहः॑ । अ॒प्ऽसु । सिं॒हम्ऽइ॑व । श्रि॒तम् ॥ईयिवांसम् । अति । स्रिधः । शश्वतीः । अति । सश्चतः । अनु । ईम् । अविन्दन् । निचिरासः । अद्रुहः । अप्सु । सिंहम्इव । श्रितम् ॥īyi-vāṃsam | ati | sridhaḥ | śaśvatīḥ | ati | saścataḥ | anu | īm | avindan | ni-cirāsaḥ | adruhaḥ | ap-su | siṃham-iva | śritam