Sukta 3.9
कायमानो वना त्वं यन्मातॄरजगन्नपः । न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभवः ॥
काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः । न तत्ते॑ अग्ने प्र॒मृषे॑ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ॥
kā́yamāno vanā́ tvaṃ yán mātṝ́r ájagan ápaḥ | ná tát te agne pramṛ́ṣe nivártanam yád dūré sán nihā́bhavaḥ ||
Though you move through the woods, when you went to the mothers, the waters—this is no turning-back for you, O Agni, no fading of your forward urge: though far away, you become here (present).
काय॑मानः । व॒ना । त्वम् । यत् । मा॒तॄः । अज॑गन् । अ॒पः । न । तत् । ते॒ । अ॒ग्ने॒ । प्र॒ऽमृषे॑ । नि॒ऽवर्त॑नम् । यत् । दू॒रे । सन् । इ॒ह । अभ॑वः ॥कायमानः । वना । त्वम् । यत् । मातॄः । अजगन् । अपः । न । तत् । ते । अग्ने । प्रमृषे । निवर्तनम् । यत् । दूरे । सन् । इह । अभवः ॥kāyamānaḥ | vanā | tvam | yat | mātṝḥ | ajagan | apaḥ | na | tat | te | agne | pra-mṛṣe | ni-vartanam | yat | dūre | san | iha | abhavaḥ