Sukta 3.9
सखायस्त्वा ववृमहे देवं मर्तास ऊतये । अपां नपातं सुभगं सुदीदितिं सुप्रतूर्तिमनेहसम् ॥
सखा॑यस्त्वा ववृमहे दे॒वं मर्ता॑स ऊ॒तये॑ । अ॒पां नपा॑तं सु॒भगं॑ सु॒दीदि॑तिं सु॒प्रतू॑र्तिमने॒हस॑म् ॥
sákhāyas tvā vavṛmahe deváṃ mártāsa ūtáye | apā́ṃ nápātaṃ subhágaṃ sudī́ditim suprátūrtim anéhasam ||
As comrades we choose you, the god, O mortals for our help—Apām Napāt, the fortunate one, the well-kindled, the well-victorious, the unwearied.
सखा॑यः । त्वा॒ । व॒वृ॒म॒हे॒ । दे॒वम् । मर्ता॑सः । ऊ॒तये॑ । अ॒पाम् । नपा॑तम् । सु॒ऽभग॑म् । सु॒ऽदीदि॑तिम् । सु॒ऽप्रतू॑र्तिम् । अ॒ने॒हस॑म् ॥सखायः । त्वा । ववृमहे । देवम् । मर्तासः । ऊतये । अपाम् । नपातम् । सुभगम् । सुदीदितिम् । सुप्रतूर्तिम् । अनेहसम् ॥sakhāyaḥ | tvā | vavṛmahe | devam | martāsaḥ | ūtaye | apām | napātam | su-bhagam | su-dīditim | su-pratūrtim | anehasam