Sukta 3.7
जानन्ति वृष्णो अरुषस्य शेवमुत ब्रध्नस्य शासने रणन्ति । दिवोरुचः सुरुचो रोचमाना इळा येषां गण्या माहिना गीः ॥
जा॒नन्ति॒ वृष्णो॑ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति । दि॒वो॒रुच॑: सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ॥
jānanti vṛ́ṣṇo aruṣásya śévam utá bradhnásya śā́sane raṇanti | divó-rúcaḥ su-rúcaḥ rۆcamānā íḷā yéṣāṃ gáṇyā mā́hinā gī́ḥ ||
They know the blissful good of the mighty Ruddy One, and they resound in the governance of the Bright. The luminous powers of heaven, shining with a right radiance, increase their light—those in whom the Word (gīḥ) becomes worthy of invocation by greatness, and the inner offering (iḷā) is awakened.
जा॒नन्ति॑ । वृष्णः॑ । अ॒रु॒षस्य॑ । शेव॑म् । उ॒त । ब्र॒ध्नस्य॑ । शास॑ने । र॒ण॒न्ति॒ । दि॒वः॒ऽरुचः॑ । सु॒ऽरुचः॑ । रोच॑मानाः । इळा॑ । येषा॑म् । गण्या॑ । माहि॑ना । गीः ॥जानन्ति । वृष्णः । अरुषस्य । शेवम् । उत । ब्रध्नस्य । शासने । रणन्ति । दिवःरुचः । सुरुचः । रोचमानाः । इळा । येषाम् । गण्या । माहिना । गीः ॥jānanti | vṛṣṇaḥ | aruṣasya | śevam | uta | bradhnasya | śāsane | raṇanti | divaḥ-rucaḥ | su-rucaḥ | rocamānāḥ | iḷā | yeṣām | gaṇyā | māhinā | gīḥ