Sukta 3.7
महि त्वाष्ट्रमूर्जयन्तीरजुर्यं स्तभूयमानं वहतो वहन्ति । व्यङ्गेभिर्दिद्युतानः सधस्थ एकामिव रोदसी आ विवेश ॥
महि॑ त्वा॒ष्ट्रमू॒र्जय॑न्तीरजु॒र्यं स्त॑भू॒यमा॑नं व॒हतो॑ वहन्ति । व्यङ्गे॑भिर्दिद्युता॒नः स॒धस्थ॒ एका॑मिव॒ रोद॑सी॒ आ वि॑वेश ॥
máhi tvāṣṭrám ūrjáyantīr ajúryaṃ stabhu-yámānaṃ váhato vahanti | vy áṅgebhir didyutānáḥ sadhásthe ékām iva ródasī ā́ viveśa ||
Great are the formative powers that strengthen you, O Tvāṣṭra-born; they carry you, the unfailing one, firmly upheld, as bearers bear their load. Shining out through the limbs, you enter the seat, as though you made Heaven-and-Earth one in a single embrace of light.
महि॑ । त्वा॒ष्ट्रम् । ऊ॒र्जय॑न्तीः । अ॒जु॒र्यम् । स्त॒भु॒ऽयमा॑नम् । व॒हतः॑ । व॒ह॒न्ति॒ । वि । अङ्गे॑भिः । दि॒द्यु॒ता॒नः । स॒धऽस्थे॑ । एका॑म्ऽइव । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ॥महि । त्वाष्ट्रम् । ऊर्जयन्तीः । अजुर्यम् । स्तभुयमानम् । वहतः । वहन्ति । वि । अङ्गेभिः । दिद्युतानः । सधस्थे । एकाम्इव । रोदसी इति । आ । विवेश ॥mahi | tvāṣṭram | ūrjayantīḥ | ajuryam | stabhu-yamānam | vahataḥ | vahant i | vi | aṅgebhiḥ | didyutānaḥ | sadha-sthe | ekām-iva | rodasī iti | ā | viveśa