Sukta 3.7
आ सीमरोहत्सुयमा भवन्तीः पतिश्चिकित्वान्रयिविद्रयीणाम् । प्र नीलपृष्ठो अतसस्य धासेस्ता अवासयत्पुरुधप्रतीकः ॥
आ सी॑मरोहत्सु॒यमा॒ भव॑न्ती॒: पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णाम् । प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ॥
ā́ sīm árohat suyámā bhávantīḥ pátiś cikitvā́n rayivíd rayīṇā́m | prá nī́lapṛṣṭho atásasya dhāsés tā́ avāsayat purudhápratīkaḥ ||
They have mounted—becoming well-guided—while the lord, the conscious knower, the finder of plenitudes, takes the lead. The dark-backed one of the woven substance sets them to their stations, he of many forms: he arranges the powers for the working of the inner rite.
आ । सी॒म् । अ॒रो॒ह॒त् । सु॒ऽयमाः॑ । भव॑न्तीः । पतिः॑ । चि॒कि॒त्वान् । र॒यि॒ऽवित् । र॒यी॒णाम् । प्र । नील॑ऽपृष्ठः । अ॒त॒सस्य॑ । धा॒सेः । ताः । अ॒वा॒स॒य॒त् । पु॒रु॒धऽप्र॑तीकः ॥आ । सीम् । अरोहत् । सुयमाः । भवन्तीः । पतिः । चिकित्वान् । रयिवित् । रयीणाम् । प्र । नीलपृष्ठः । अतसस्य । धासेः । ताः । अवासयत् । पुरुधप्रतीकः ॥ā | sīm | arohat | su-yamāḥ | bhavantīḥ | patiḥ | cikitvān | rayi-vit | rayīṇām | pra | nīla-pṛṣṭhaḥ | atasasya | dhāseḥ | tāḥ | avāsayat | purudha-pratīkaḥ