Sukta 3.7
दिवक्षसो धेनवो वृष्णो अश्वा देवीरा तस्थौ मधुमद्वहन्तीः । ऋतस्य त्वा सदसि क्षेमयन्तं पर्येका चरति वर्तनिं गौः ॥
दिवक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा॑ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वह॑न्तीः । ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका॑ चरति वर्त॒निं गौः ॥
divákṣaso dhenávo vṛ́ṣṇo áśvā devī́r ā́ tasthau mádhumad váhantīḥ | ṛtásya tvā sádasi kṣémayantam páry ékā carati vartaníṃ gáuḥ ||
The divine milk-cows of heaven, the stallion’s horses, stand ready bearing sweetness. In the seat of Ṛta you are the maker of safety and peace; around you the one Cow moves along the track—circling as the ray of knowledge that follows the true course.
दि॒वक्ष॑सः । धे॒नवः॑ । वृष्णः॑ । अश्वाः॑ । दे॒वीः । आ । त॒स्थौ॒ । मधु॑ऽमत् । वह॑न्तीः । ऋ॒तस्य॑ । त्वा॒ । सद॑सि । क्षे॒म॒ऽयन्त॑म् । परि॑ । एका॑ । च॒र॒ति॒ । व॒र्त॒निम् । गौः ॥दिवक्षसः । धेनवः । वृष्णः । अश्वाः । देवीः । आ । तस्थौ । मधुमत् । वहन्तीः । ऋतस्य । त्वा । सदसि । क्षेमयन्तम् । परि । एका । चरति । वर्तनिम् । गौः ॥divakṣasaḥ | dhenavaḥ | vṛṣṇaḥ | aśvāḥ | devīḥ | ā | tasthau | madhu-mat | vahantīḥ | ṛtasya | tvā | sadasi | kṣema-yantam | pari | ekā | carati | vartanim | gauḥ