Sukta 3.7
प्र य आरुः शितिपृष्ठस्य धासेरा मातरा विविशुः सप्त वाणीः । परिक्षिता पितरा सं चरेते प्र सर्स्राते दीर्घमायुः प्रयक्षे ॥
प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा॑ विविशुः स॒प्त वाणी॑: । प॒रि॒क्षिता॑ पि॒तरा॒ सं च॑रेते॒ प्र स॑र्स्राते दी॒र्घमायु॑: प्र॒यक्षे॑ ॥
prá yá ā́ruḥ śitipṛṣṭhásya dhāsér ā́ mā́tarā viviśuḥ saptá vā́ṇīḥ | parikṣitā́ pitarā́ sáṃ caretē prá sarsrātē dīrghám ā́yuḥ práyakṣe ||
Forward they rise—those seven powers of speech—entering into the two Mothers of the bright-backed one. The two Fathers, encompassing, move together; they extend the long life in the forward sacrifice of the soul.
प्र । ये । आ॒रुः । शि॒ति॒ऽपृ॒ष्ठस्य॑ । धा॒सेः । आ । मा॒तरा॑ । वि॒वि॒शुः॒ । स॒प्त । वाणीः॑ । प॒रि॒ऽक्षिताः॑ । पि॒तरा॑ । सम् । च॒रे॒ते॒ । प्र । स॒र्स्रा॒ते॒ इति॑ । दी॒र्घम् । आयुः॑ । प्र॒ऽयक्षे॑ ॥प्र । ये । आरुः । शितिपृष्ठस्य । धासेः । आ । मातरा । विविशुः । सप्त । वाणीः । परिक्षिताः । पितरा । सम् । चरेते । प्र । सर्स्राते इति । दीर्घम् । आयुः । प्रयक्षे ॥pra | ye | āruḥ | śiti-pṛṣṭhasya | dhāseḥ | ā | mātarā | viviśuḥ | sapta | vāṇīḥ | pari-kṣitāḥ | pitarā | sam | carete | pra | sarsrāteiti | dīrgham | āyuḥ | pra-yakṣe