Sukta 3.7
पृक्षप्रयजो द्रविणः सुवाचः सुकेतव उषसो रेवदूषुः । उतो चिदग्ने महिना पृथिव्याः कृतं चिदेनः सं महे दशस्य ॥
पृ॒क्षप्र॑यजो द्रविणः सु॒वाच॑: सुके॒तव॑ उ॒षसो॑ रे॒वदू॑षुः । उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देन॒: सं म॒हे द॑शस्य ॥
pṛkṣá-prayajo dráviṇaḥ su-vā́caḥ su-kétava uṣáso revád ūṣuḥ | utó cid agne máhinā pṛthivyā́ḥ kṛtáṃ cid énaḥ sáṃ mahé daśasya ||
Those who offer strengthening oblations, rich in substance and well-worded, the Dawn-powers of clear discernment have shone with abundance. And even what has been done as fault—O Agni—by the greatness of Earth, we would set it in harmony and make it a means of greater perfection.
पृ॒क्षऽप्र॑यजः । द्र॒वि॒णः॒ । सु॒ऽवाचः॑ । सु॒ऽके॒तवः॑ । उ॒षसः॑ । रे॒वत् । ऊ॒षुः॒ । उ॒तो इति॑ । चि॒त् । अ॒ग्ने॒ । म॒हि॒ना । पृ॒थि॒व्याः । कृ॒तम् । चि॒त् । एनः॑ । सम् । म॒हे । द॒श॒स्य॒ ॥पृक्षप्रयजः । द्रविणः । सुवाचः । सुकेतवः । उषसः । रेवत् । ऊषुः । उतो इति । चित् । अग्ने । महिना । पृथिव्याः । कृतम् । चित् । एनः । सम् । महे । दशस्य ॥pṛkṣa-prayajaḥ | draviṇaḥ | su-vācaḥ | su-ketavaḥ | uṣasaḥ | revat | ūṣuḥ | uto iti | cit | agne | mahinā | pṛthivyāḥ | kṛtam | cit | enaḥ | sam | mahe | daśasya