Sukta 3.7
इळामग्ने पुरुदंसं सनिं गोः शश्वत्तमं हवमानाय साध । स्यान्नः सूनुस्तनयो विजावाग्ने सा ते सुमतिर्भूत्वस्मे ॥
इळा॑मग्ने पुरु॒दंसं॑ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध । स्यान्न॑: सू॒नुस्तन॑यो वि॒जावाग्ने॒ सा ते॑ सुम॒तिर्भू॑त्व॒स्मे ॥
íḷām agne puru-dáṃsaṃ saníṃ góḥ śaśvattamáṃ havamānāya sādha | syān naḥ sūnúḥ tánayo vijā́vā agne sā́ te su-matír bhūtv asmē ||
O Agni, accomplish for the caller the Iḷā—rich in many works—an enduring winning of the Rays (go). May there be for us a son, a child with victorious energy; O Agni, let that be thy good-will toward us.
इळा॑म् । अ॒ग्ने॒ । पु॒रु॒ऽदंस॑म् । स॒निम् । गोः । श॒श्व॒त्ऽत॒मम् । हव॑मानाय । सा॒ध॒ । स्यात् । नः॒ । सू॒नुः । तन॑यः । वि॒जाऽवा॑ । अ॒ग्ने॒ । सा । ते॒ । सु॒ऽम॒तिः । भू॒तु॒ । अ॒स्मे इति॑ ॥इळाम् । अग्ने । पुरुदंसम् । सनिम् । गोः । शश्वत्तमम् । हवमानाय । साध । स्यात् । नः । सूनुः । तनयः । विजावा । अग्ने । सा । ते । सुमतिः । भूतु । अस्मे इति ॥iḷām | agne | puru-daṃsam | sanim | goḥ | śaśvat-tamam | havamānāya | sādha | syāt | naḥ | sūnuḥ | tanayaḥ | vijāvā | agne | sā | te | su-matiḥ | bhūtu | asme iti