Sukta 3.7
वृषायन्ते महे अत्याय पूर्वीर्वृष्णे चित्राय रश्मयः सुयामाः । देव होतर्मन्द्रतरश्चिकित्वान्महो देवान्रोदसी एह वक्षि ॥
वृ॒षा॒यन्ते॑ म॒हे अत्या॑य पू॒र्वीर्वृष्णे॑ चि॒त्राय॑ र॒श्मय॑: सुया॒माः । देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ॥
vṛṣāyánte mahé átyāya pū́rvīr vṛ́ṣṇe citrā́ya raśmáyaḥ su-yā́māḥ | déva hotar mandrátaraś cikitvān mahó devā́n rodasī́ éha vakṣi ||
The ancient rays surge mightily for the great beyond, for the Bull of many forms, moving in a right course. O divine Hotar, more gladdening and knowing, bring here the great gods—Heaven and Earth—into this working.
वृ॒षा॒ऽयन्ते॑ । म॒हे । अत्या॑य । पू॒र्वीः । वृष्णे॑ । चि॒त्राय॑ । र॒श्मयः॑ । सु॒ऽया॒माः । देव॑ । हो॒तः॒ । म॒न्द्रऽत॑रः । चि॒कि॒त्वान् । म॒हः । दे॒वान् । रोद॑सी॒ इति॑ । आ । इ॒ह । व॒क्षि॒ ॥वृषायन्ते । महे । अत्याय । पूर्वीः । वृष्णे । चित्राय । रश्मयः । सुयामाः । देव । होतः । मन्द्रतरः । चिकित्वान् । महः । देवान् । रोदसी इति । आ । इह । वक्षि ॥vṛṣāyante | mahe | atyāya | pūrvīḥ | vṛṣṇe | citrāyaḥraśmayaḥḥsu-yāmāḥḥdevaḥhotaḥḥmandra-taraḥḥcikitvānḥmahaḥḥdevānḥrodasī itiḥāḥihaḥvakṣi