Sukta 3.62
यो विश्वाभि विपश्यति भुवना सं च पश्यति । स नः पूषाविता भुवत् ॥
यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति । स न॑: पू॒षावि॒ता भु॑वत् ॥
yó viśvā́bhi vipáśyati bhúvanā sáṃ ca páśyati | sá naḥ pūṣā́vitā bhúvat ||
He who looks with awakened vision upon all things and gathers into a single seeing the worlds and their movements—may that Pūṣan become for us the Protector and Guide.
यः । विश्वा॑ । अ॒भि । वि॒ऽपश्य॑ति । भुव॑ना । सम् । च॒ । पश्य॑ति । सः । नः॒ । पू॒षा । अ॒वि॒ता । भु॒व॒त् ॥यः । विश्वा । अभि । विपश्यति । भुवना । सम् । च । पश्यति । सः । नः । पूषा । अविता । भुवत् ॥yaḥ | viśvā | abhi | vi-paśyati | bhuvanā | sam | ca | paśyati | saḥ | naḥ | pūṣā | avitā | bhuvat