Sukta 3.62
तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात् ॥
तत्स॑वि॒तुर्वरे॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि । धियो॒ यो न॑: प्रचो॒दया॑त् ॥
tát savitúr váreṇyaṃ bhárgo devásya dhīmahi | dhíyo yó naḥ pracodáyāt ||
That most choiceful splendor of Savitṛ, the divine Flame of illumination, we hold in our thought and meditation; may he impel and set forward our insights and discernments.
तत् । स॒वि॒तुः । वरे॑ण्यम् । भर्गः॑ । दे॒वस्य॑ । धी॒म॒हि॒ । धियः॑ । यः । नः॒ । प्र॒ऽचो॒दया॑त् ॥तत् । सवितुः । वरेण्यम् । भर्गः । देवस्य । धीमहि । धियः । यः । नः । प्रचोदयात् ॥tat | savituḥ | vareṇyam | bhargaḥ | devasya | dhīmahi | dhiyaḥ | yaḥ | naḥ | pra-codayāt