Sukta 3.62
अयमु वां पुरुतमो रयीयञ्छश्वत्तममवसे जोहवीति । सजोषाविन्द्रावरुणा मरुद्भिर्दिवा पृथिव्या शृणुतं हवं मे ॥
अ॒यमु॑ वां पुरु॒तमो॑ रयी॒यञ्छ॑श्वत्त॒ममव॑से जोहवीति । स॒जोषा॑विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं॑ मे ॥
ayám u vāṃ purutámo rayīyáñ chaśvattamáṃ ávase johavīti | sajóṣāv indrāvaruṇā marúdbhir divā́ pṛthivyā́ śṛṇutaṃ hávaṃ me ||
This (seer) calls to you two most abundantly for the riches that endure, for your help that lasts. Together with the Maruts, O Indra–Varuṇa, from Heaven and from Earth, hear my call.
अ॒यम् । ऊँ॒ इति॑ । वा॒म् । पु॒रु॒ऽतमः॑ । र॒यि॒ऽयन् । श॒श्व॒त्ऽत॒मम् । अव॑से । जो॒ह॒वी॒ति॒ । स॒ऽजोषौ॑ । इ॒न्द्रा॒व॒रु॒णा॒ । म॒रुत्ऽभिः॑ । दि॒वा । पृ॒थि॒व्या । शृ॒णु॒त॒म् । हव॑म् । मे॒ ॥अयम् । ऊँ इति । वाम् । पुरुतमः । रयियन् । शश्वत्तमम् । अवसे । जोहवीति । सजोषौ । इन्द्रावरुणा । मरुत्भिः । दिवा । पृथिव्या । शृणुतम् । हवम् । मे ॥ayam | oṃ iti | vām | puru-tamaḥ | rayi-yan | śaśvat-tamam | avase | johavīti | sa-joṣau | indrāvaruṇā | marut-bhiḥ | divā | pṛthivyā | śṛṇutam | havam | me