Sukta 3.62
अस्मे तदिन्द्रावरुणा वसु ष्यादस्मे रयिर्मरुतः सर्ववीरः । अस्मान्वरूत्रीः शरणैरवन्त्वस्मान्होत्रा भारती दक्षिणाभिः ॥
अ॒स्मे तदि॑न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुत॒: सर्व॑वीरः । अ॒स्मान्वरू॑त्रीः शर॒णैर॑वन्त्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ॥
asmé tád indrāvaruṇā vásu syād asmé rayír marutaḥ sárvavīraḥ | asmā́n varū́trīḥ śaráṇair avantv asmā́n hotrā́ bhā́ratī dákṣiṇābhiḥ ||
In us may that good be established, O Indra–Varuṇa; in us may the plenitude be, O Maruts, rich in all heroic powers. May the Protectresses guard us with shelters; may Bhāratī the priestly power uphold us with her gifts of right offering.
अ॒स्मे इति॑ । तत् । इ॒न्द्रा॒व॒रु॒णा॒ । वसु॑ । स्या॒त् । अ॒स्मे इति॑ । र॒यिः । म॒रु॒तः॒ । सर्व॑ऽवीरः । अ॒स्मान् । वरू॑त्रीः । श॒र॒णैः । अ॒व॒न्तु॒ । अ॒स्मान् । होत्रा॑ । भार॑ती । दक्षि॑णाभिः ॥अस्मे इति । तत् । इन्द्रावरुणा । वसु । स्यात् । अस्मे इति । रयिः । मरुतः । सर्ववीरः । अस्मान् । वरूत्रीः । शरणैः । अवन्तु । अस्मान् । होत्रा । भारती । दक्षिणाभिः ॥asme iti | tat | indrāvaruṇā | vasu | syāt | asme iti | rayiḥ | marutaḥ | sarva-vīraḥ | asmān | varūtrīḥ | śaraṇaiḥ | avantu | asmān | hotrā | bhāratī | dakṣiṇābhiḥ