Sukta 3.62
इमा उ वां भृमयो मन्यमाना युवावते न तुज्या अभूवन् । क्व त्यदिन्द्रावरुणा यशो वां येन स्मा सिनं भरथः सखिभ्यः ॥
इ॒मा उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या॑ अभूवन् । क्व१॒॑ त्यदि॑न्द्रावरुणा॒ यशो॑ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थ॒: सखि॑भ्यः ॥
imā́ u vāṃ bhṛmáyo mányamānā yuvā́vate ná tujyā́ abhūvan | kvà tyád indrāvaruṇā yáśo vāṃ yéna smā sínam bhárathaḥ sákhībhyaḥ ||
These restless forces, thinking themselves strong, could not truly assail you who are ever young in power. Where is that glory of you, O Indra–Varuṇa, by which you used to bring the winning fullness to your comrades within us?
इ॒माः । ऊँ॒ इति॑ । वा॒म् । भृ॒मयः॑ । मन्य॑मानाः । यु॒वाऽव॑ते । न । तुज्याः॑ । अ॒भू॒व॒न् । क्व॑ । त्यत् । इ॒न्द्रा॒व॒रु॒णा॒ । यशः॑ । वा॒म् । येन॑ । स्म॒ । सिन॑म् । भर॑थः । सखि॑ऽभ्यः ॥इमाः । ऊँ इति । वाम् । भृमयः । मन्यमानाः । युवावते । न । तुज्याः । अभूवन् । क्व । त्यत् । इन्द्रावरुणा । यशः । वाम् । येन । स्म । सिनम् । भरथः । सखिभ्यः ॥imāḥ | oṃ iti | vām | bhṛmayaḥ | manyamānāḥ | yuvāvate | na | tujyāḥ | abhūvan | kva | tyat | indrāvaruṇā | yaśaḥ | vām | yena | sma | sinam | bharathaḥ | sakhi-bhyaḥ