Sukta 3.62
उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः । द्राघिष्ठाभिः शुचिव्रता ॥
उ॒रु॒शंसा॑ नमो॒वृधा॑ म॒ह्ना दक्ष॑स्य राजथः । द्राघि॑ष्ठाभिः शुचिव्रता ॥
uruśáṃsā namovṛ́dhā mahnā́ dákṣasya rājathaḥ | drā́ghiṣṭhābhiḥ śucivratā ||
Wide in your praise, increasers of the soul’s reverence, by greatness you rule through Dakṣa; with your far-reaching powers, O pure in your law of working.
उ॒रु॒ऽशंसा॑ । न॒मः॒ऽवृधा॑ । म॒ह्ना । दक्ष॑स्य । रा॒ज॒थः॒ । द्राघि॑ष्ठाभिः । शु॒चि॒ऽव्र॒ता॒ ॥उरुशंसा । नमःवृधा । मह्ना । दक्षस्य । राजथः । द्राघिष्ठाभिः । शुचिव्रता ॥uru-śaṃsā | namaḥ-vṛdhā | mahnā | dakṣasya | rājathaḥ | drāghiṣṭhābhiḥ | śuci-vratā