Sukta 3.62
सोमो जिगाति गातुविद्देवानामेति निष्कृतम् । ऋतस्य योनिमासदम् ॥
सोमो॑ जिगाति गातु॒विद्दे॒वाना॑मेति निष्कृ॒तम् । ऋ॒तस्य॒ योनि॑मा॒सद॑म् ॥
sómo jigāti gātuvíd devā́nām eti níṣkṛtam | ṛtásya yónim āsádam ||
Soma moves on, knower of the paths; he goes to the gods’ appointed opening, taking his seat in the womb of Ṛta—his native foundation in the Truth-Order.
सोमः॑ । जि॒गा॒ति॒ । गा॒तु॒ऽवित् । दे॒वाना॑म् । ए॒ति॒ । निः॒ऽकृ॒तम् । ऋ॒तस्य॑ । योनि॑म् । आ॒ऽसद॑म् ॥सोमः । जिगाति । गातुवित् । देवानाम् । एति । निःकृतम् । ऋतस्य । योनिम् । आसदम् ॥somaḥ | jigāti | gātu-vit | devānām | eti | niḥ-kṛtam | ṛtasya | yonim | āsadam