Sukta 3.62
देवं नरः सवितारं विप्रा यज्ञैः सुवृक्तिभिः । नमस्यन्ति धियेषिताः ॥
दे॒वं नर॑: सवि॒तारं॒ विप्रा॑ य॒ज्ञैः सु॑वृ॒क्तिभि॑: । न॒म॒स्यन्ति॑ धि॒येषि॒ताः ॥
deváṃ nárāḥ savitā́raṃ víprā yajñáiḥ suvṛ́ktibhiḥ | namasyánti dhiyéṣitāḥ ||
Men of the seeking mind, the illumined ones, worship Savitṛ the divine with sacrifice and well-shaped word; driven by the inspired intelligence they bow in adoration.
दे॒वम् । नरः॑ । स॒वि॒तार॑म् । विप्राः॑ । य॒ज्ञैः । सु॒वृ॒क्तिऽभिः॑ । न॒म॒स्यन्ति॑ । धि॒या । इ॒षि॒ताः ॥देवम् । नरः । सवितारम् । विप्राः । यज्ञैः । सुवृक्तिभिः । नमस्यन्ति । धिया । इषिताः ॥devam | naraḥ | savitāram | viprāḥ | yajñaiḥ | suvṛkti-bhiḥ | namasyanti | dhiyā | iṣitāḥ