Sukta 3.62
देवस्य सवितुर्वयं वाजयन्तः पुरंध्या । भगस्य रातिमीमहे ॥
दे॒वस्य॑ सवि॒तुर्व॒यं वा॑ज॒यन्त॒: पुरं॑ध्या । भग॑स्य रा॒तिमी॑महे ॥
devásya savitúr vayáṃ vājayántaḥ púraṃ-dhyā́ | bhágasya rātím īmahe ||
We, pressing forward the plenitudes of force, with a thought that builds the inner city, seek the gift of Bhaga from the god Savitṛ.
दे॒वस्य॑ । स॒वि॒तुः । व॒यम् । वा॒ज॒ऽयन्तः॑ । पुर॑म्ऽध्या । भग॑स्य । रा॒तिम् । ई॒म॒हे॒ ॥देवस्य । सवितुः । वयम् । वाजयन्तः । पुरम्ध्या । भगस्य । रातिम् । ईमहे ॥devasya | savituḥ | vayam | vāja-yantaḥ | puram-dhyā | bhagasya | rātim | īmahe