Sukta 3.61
ऋतावरी दिवो अर्कैरबोध्या रेवती रोदसी चित्रमस्थात् । आयतीमग्न उषसं विभातीं वाममेषि द्रविणं भिक्षमाणः ॥
ऋ॒ताव॑री दि॒वो अ॒र्कैर॑बो॒ध्या रे॒वती॒ रोद॑सी चि॒त्रम॑स्थात् । आ॒य॒तीम॑ग्न उ॒षसं॑ विभा॒तीं वा॒ममे॑षि॒ द्रवि॑णं॒ भिक्ष॑माणः ॥
ṛtā́varī divó arkáir abodhyā́ revátī ródasī citrám asthāt | āyatī́m agne uṣásam vibhātī́m vāmám eṣi dráviṇaṃ bhíkṣamāṇaḥ ||
The Two who move in the Truth—Heaven’s wide pair—are awakened by the flaming hymns; the opulent (powers) of the two worlds take their place in a wondrous form. O Agni, as the Dawn comes, shining out, you go seeking the desirable wealth—asking for the substance that fills the being.
ऋ॒तऽव॑री । दि॒वः । अ॒र्कैः । अ॒बो॒धि॒ । आ । रे॒वती॑ । रोद॑सी॒ इति॑ । चि॒त्रम् । आ॒स्था॒त् । आ॒य॒तीम् । अ॒ग्ने॒ । उ॒षस॑म् । वि॒ऽभा॒तीम् । वा॒मम् । ए॒षि॒ । द्रवि॑णम् । भिक्ष॑माणः ॥ऋतवरी । दिवः । अर्कैः । अबोधि । आ । रेवती । रोदसी इति । चित्रम् । आस्थात् । आयतीम् । अग्ने । उषसम् । विभातीम् । वामम् । एषि । द्रविणम् । भिक्षमाणः ॥ṛta-varī | divaḥ | arkaiḥ | abodhi | ā | revatī | rodasī iti | citram | āsthāt | āyatīm | agne | uṣasam | vi-bhātīm | vāmam | eṣi | draviṇam | bhi kṣamāṇaḥ