Sukta 3.61
ऋतस्य बुध्न उषसामिषण्यन्वृषा मही रोदसी आ विवेश । मही मित्रस्य वरुणस्य माया चन्द्रेव भानुं वि दधे पुरुत्रा ॥
ऋ॒तस्य॑ बु॒ध्न उ॒षसा॑मिष॒ण्यन्वृषा॑ म॒ही रोद॑सी॒ आ वि॑वेश । म॒ही मि॒त्रस्य॒ वरु॑णस्य मा॒या च॒न्द्रेव॑ भा॒नुं वि द॑धे पुरु॒त्रा ॥
ṛtásya budhná uṣásām iṣaṇyán vṛ́ṣā mahī́ ródasī ā́ viveśa | mahī́ mitrásya váruṇasya māyā́ candréva bhānúṃ ví dadhē purutrā́ ||
From the foundation of the Truth, impelling the Dawns, the mighty Bull enters into the vast Heaven-and-Earth. Great is the formative power of Mitra and Varuṇa: like the Moon it sets the light in many places, distributing the beam widely.
ऋ॒तस्य॑ । बु॒ध्ने । उ॒षसा॑म् । इ॒ष॒ण्यन् । वृषा॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ । म॒ही । मि॒त्रस्य॑ । वरु॑णस्य । मा॒या । च॒न्द्राऽइ॑व । भा॒नुम् । वि । द॒धे॒ । पु॒रु॒ऽत्रा ॥ऋतस्य । बुध्ने । उषसाम् । इषण्यन् । वृषा । मही इति । रोदसी इति । आ । विवेश । मही । मित्रस्य । वरुणस्य । माया । चन्द्राइव । भानुम् । वि । दधे । पुरुत्रा ॥ṛtasya | budhne | uṣasām | iṣaṇyan | vṛṣā | mahī iti | rodasī iti | ā | viveśa | mahī | mitrasya | varuṇasya | māyā | candrāiva | bhānum | vi | dadhe | puru-trā