Sukta 3.61
अव स्यूमेव चिन्वती मघोन्युषा याति स्वसरस्य पत्नी । स्वर्जनन्ती सुभगा सुदंसा आन्ताद्दिवः पप्रथ आ पृथिव्याः ॥
अव॒ स्यूमे॑व चिन्व॒ती म॒घोन्यु॒षा या॑ति॒ स्वस॑रस्य॒ पत्नी॑ । स्व१॒॑र्जन॑न्ती सु॒भगा॑ सु॒दंसा॒ आन्ता॑द्दि॒वः प॑प्रथ॒ आ पृ॑थि॒व्याः ॥
áva syū́ma iva cinvatī́ maghóny uṣā́ yāti svásarasya pátnī | svàr jánantī su-bhágā su-dáṃsā ā́ntād diváḥ paprathá ā́ pṛthivyā́ḥ ||
Gathering her riches as one gathers treasure, the bounteous Dawn moves on, the spouse of her sister. Bringing forth the luminous world, fortunate and of perfect workmanship, she spreads from the far end of heaven even to the earth.
अव॑ । स्यूम॑ऽइव । चि॒न्व॒ती । म॒घोनी॑ । उ॒षा । या॑आ॒इ॒ । स्वस॑रस्य । पत्नी॑ । स्वः॑ । जन॑न्ती । सु॒ऽभगा॑ । सु॒ऽदंसाः॑ । आ । अन्ता॑त् । दि॒वः । प॒प्र॒थे॒ । आ । पृ॒थि॒व्याः ॥अव । स्यूमइव । चिन्वती । मघोनी । उषा । याआइ । स्वसरस्य । पत्नी । स्वः । जनन्ती । सुभगा । सुदंसाः । आ । अन्तात् । दिवः । पप्रथे । आ । पृथिव्याः ॥ava | syūma-iva | cinvatī | maghonī | uṣā | yāāi | svasarasya | patnī | svaḥ | janantī | su-bhagā | su-daṃsāḥ | ā | antāt | divaḥ | paprathe | ā | pṛthivyāḥ