Sukta 3.61
उषः प्रतीची भुवनानि विश्वोर्ध्वा तिष्ठस्यमृतस्य केतुः । समानमर्थं चरणीयमाना चक्रमिव नव्यस्या ववृत्स्व ॥
उष॑: प्रती॒ची भुव॑नानि॒ विश्वो॒र्ध्वा ति॑ष्ठस्य॒मृत॑स्य के॒तुः । स॒मा॒नमर्थं॑ चरणी॒यमा॑ना च॒क्रमि॑व नव्य॒स्या व॑वृत्स्व ॥
uṣáḥ pratī́cī búhvanāni viśvóūrdhvā́ tiṣṭhasy amṛ́tasya ketúḥ | samānám árthaṃ caraṇī́yamānā cakrám iva navyasyā́ vavṛtsva ||
O Dawn, turning toward us, you stand upright over all the worlds, a beacon of the deathless. Moving toward the same goal, you renew yourself again and again like a wheel, ever more fresh in your returning.
उषः॑ । प्र॒ती॒ची । भुव॑नानि । विश्वा॑ । ऊ॒र्ध्वा । ति॒ष्ठ॒सि॒ । अ॒मृत॑स्य । के॒तुः । स॒मा॒नम् । अर्थ॑म् । च॒र॒णी॒यमा॑ना । च॒क्रम्ऽइ॑व । न॒व्य॒सि॒ । आ । व॒वृ॒त्स्व॒ ॥उषः । प्रतीची । भुवनानि । विश्वा । ऊर्ध्वा । तिष्ठसि । अमृतस्य । केतुः । समानम् । अर्थम् । चरणीयमाना । चक्रम्इव । नव्यसि । आ । ववृत्स्व ॥uṣaḥ | pratīcī | bhuvanāni | viśvā | ūrdhvā | tiṣṭhasi | amṛtasya | ketuḥ | samānam | artham | caraṇīyamānā | cakram-iva | navyasi | ā | vavṛtsva