Sukta 3.61
उषो देव्यमर्त्या वि भाहि चन्द्ररथा सूनृता ईरयन्ती । आ त्वा वहन्तु सुयमासो अश्वा हिरण्यवर्णां पृथुपाजसो ये ॥
उषो॑ दे॒व्यम॑र्त्या॒ वि भा॑हि च॒न्द्रर॑था सू॒नृता॑ ई॒रय॑न्ती । आ त्वा॑ वहन्तु सु॒यमा॑सो॒ अश्वा॒ हिर॑ण्यवर्णां पृथु॒पाज॑सो॒ ये ॥
uṣó devyám amartyā́ ví bhāhi candra-rathā sūnṛ́tā ī́rayantī | ā́ tvā vahantu su-yámāso áśvā hiraṇya-varṇāṃ pṛthú-pājaso yé ||
O Dawn, divine and deathless, shine out wide, with your moon-bright chariot, setting the true inspirations in motion. Let the well-yoked horses bring you—golden-hued, broad in radiance—those that bear your vast light.
उषः॑ । दे॒वि॒ । अम॑र्त्या । वि । भा॒हि॒ । च॒न्द्रऽर॑था । सू॒नृताः॑ । ई॒रय॑न्ती । आ । त्वा॒ । व॒ह॒न्तु॒ । सु॒ऽयमा॑सः । अश्वाः॑ । हिर॑ण्यऽवर्णाम् । पृ॒थु॒ऽपाज॑सः । ये ॥उषः । देवि । अमर्त्या । वि । भाहि । चन्द्ररथा । सूनृताः । ईरयन्ती । आ । त्वा । वहन्तु । सुयमासः । अश्वाः । हिरण्यवर्णाम् । पृथुपाजसः । ये ॥uṣaḥ | devi | amartyā | vi | bhāhi | candra-rathā | sūnṛtāḥ | īrayantī | ā | tvā | vahantu | su-yamāsaḥ | aśvāḥ | hiraṇya-varṇām | pṛthu-pājasaḥ | ye