Sukta 3.59
मित्राय पञ्च येमिरे जना अभिष्टिशवसे । स देवान्विश्वान्बिभर्ति ॥
मि॒त्राय॒ पञ्च॑ येमिरे॒ जना॑ अ॒भिष्टि॑शवसे । स दे॒वान्विश्वा॑न्बिभर्ति ॥
mitrā́ya páñca yemire jánā abhiṣṭí-śavase | sá devā́n víśvān bibharti ||
To Mitra the five peoples yoke themselves, for the strength that brings help and victory; he bears and upholds all the gods (all the divine powers) within the ordered unity.
मि॒त्राय । पञ्च॑ । ये॒मि॒रे॒ । जनाः॑ । अ॒भिष्टि॑ऽशवसे । सः । दे॒वान् । विश्वा॑न् । बि॒भ॒र्ति॒ ॥मित्राय । पञ्च । येमिरे । जनाः । अभिष्टिशवसे । सः । देवान् । विश्वान् । बिभर्ति ॥mitrāya | pañca | yemire | janāḥ | abhiṣṭi-śavase | saḥ | devān | viśvān | bibharti