Sukta 3.59
अभि यो महिना दिवं मित्रो बभूव सप्रथाः । अभि श्रवोभिः पृथिवीम् ॥
अ॒भि यो म॑हि॒ना दिवं॑ मि॒त्रो ब॒भूव॑ स॒प्रथा॑: । अ॒भि श्रवो॑भिः पृथि॒वीम् ॥
abhí yó mahinā́ dívaṃ mitró babhū́va sapráthāḥ | abhí śrávobhiḥ pṛthivī́m ||
He who by his greatness became Mitra—wide-spread over heaven; and wide-spread by his powers of inspired hearing over the Earth.
अ॒भि । यः । म॒हि॒ना । दिव॑म् । मि॒त्रः । ब॒भूव॑ । स॒ऽप्रथाः॑ । अ॒भि । श्रवः॑ऽभिः । पृ॒थि॒वीम् ॥अभि । यः । महिना । दिवम् । मित्रः । बभूव । सप्रथाः । अभि । श्रवःभिः । पृथिवीम् ॥abhi | yaḥ | mahinā | divam | mitraḥ | babhūva | sa-prathāḥ | abhi | śravaḥ-bhiḥ | pṛthivīm