Sukta 3.59
मित्रस्य चर्षणीधृतोऽवो देवस्य सानसि । द्युम्नं चित्रश्रवस्तमम् ॥
मि॒त्रस्य॑ चर्षणी॒धृतोऽवो॑ दे॒वस्य॑ सान॒सि । द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ॥
mitrásya carṣaṇīdhṛ́to ’vó devásya sānásī | dyumnáṃ citráśravastamam ||
Win for us the help of Mitra, the god who upholds the peoples; and gain the radiant puissance, most rich in manifold fame—luminous in its hearing and spreading.
मि॒त्रस्य॑ । च॒र्ष॒णि॒ऽधृतः॑ । अवः॑ । दे॒वस्य॑ । सा॒न॒सि । द्यु॒म्नम् । चि॒त्रश्र॑वःऽतमम् ॥मित्रस्य । चर्षणिधृतः । अवः । देवस्य । सानसि । द्युम्नम् । चित्रश्रवःतमम् ॥mitrasya | carṣaṇi-dhṛtaḥ | avaḥ | devasya | sānasi | dyumnam | citraśravaḥ-tamam